तरुः - Tree - पेड़ पर संस्कृत निबंध - ( Sanskrit Essay on Tree )

Trees are our best friends because they clean the air we breathe. Likewise, they also clean the water and soil and ultimately make the earth a better place. It is also a fact that people who live near trees are healthier, fit, and happier than people who do not.

Moreover, it is our responsibility to look after our friends who serve us in many ways. Most importantly by saving plants, we are not doing any favor to plants but to ourselves only. Because trees and plants life does not depend on us but our lives depend on them.

Importance of Trees

Trees are important to us in a lot of ways and we cannot ignore their importance. They are important because they give us fresh air to breathe, food to eat and shelter/shade from sunlight and rainfall. Besides this, there are many medicines in the market that are made up of trees extracts. Apart from this, there are plants and trees that have medicinal value.

They bring peacefulness; create a pleasing and relaxing environment. Also, they help in reflecting the harmful rays of the sun and maintaining a balanced temperature. Besides, they also help in water conservation and preventing soil erosion. They also manage the ecosystem and from ancient times several varieties of plants are worshipped.

Benefits of Trees

Trees provide us many benefits some of which we can’t see but they make a huge difference. They help in fighting back the climate changes by absorbing greenhouse gases which are the main cause of climate change.

Moreover, they replenish groundwater and filter the air from harmful pollutants and odors. Besides, they are a great source of food and the king of fruits ‘Mango’ also grow on trees.

Moreover, they are the cause of rainfall as they attract clouds towards the surface and make them rain. They can be teachers, playmates and a great example of unity in diversity.

Above all, they are a good source of reducing air, water, and noise pollution.

Value of Trees

When a seed of a plant or tree grow it makes the area around it greener. Also, it supports many life forms. Birds make their nests, many reptiles and animals live on it or near it.

Besides, all these many beautiful flowers, food growing on it. Moreover, many parts of trees such as roots, leaves, stem, flower, seeds, are also edible. Most importantly they never ask anything in return for their services and the gifts they give. Trees also keep the balance in the ecosystem and ecology.

To conclude, we can say that trees are very important and beneficial for every life form on earth. Without them, the survival of life on earth will become difficult and after some time every species starts to die because of lack of oxygen on the planet. So, to save our lives and to survive we have to learn the importance of trees and also have to teach our children the importance of trees.

तरुः - Tree


तरुः उन्नतः पादपः अस्ति। 
तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।
अनेके तरवः फलानि ददति। 
अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। 
तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। 
तरवः जनेभ्यः छायां यच्छन्ति।
उक्तञ्च "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। 
फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"

केचन प्रामुखवृक्षाः

अश्वत्थः - Peepul Tree
अश्वत्थवृक्षः (कन्नाडे ಅರಳಿ)(आङ्ग्ले Peepul Tree) भारतीयानां सर्वेषां पवित्रतमः वृक्षः इति परिगणितः । एशियाखण्डस्य दक्षिणभागे अयं वृक्षः अधितया रोहन्ति । बोधिवृक्षः इति अस्य अपरं नाम । अस्य वृक्षस्य अधः एव तपः कृत्वा सिद्धार्थं बुद्ध अभवत् इति प्रतीतिः अस्ति । कर्णाटकभाषाया अरळि इत्यपि कथयन्ति । अयम् अश्वत्थः भारते सर्वत्र वर्धमानः कश्चन वृक्षविशेषः । पुराणकालतः अपि अयम् अश्वत्थः देवानां निवासस्थानम् इति ख्यातः अस्ति । अतः एव अयं वृक्षः सर्वत्र पूज्यभावनया पूज्यते । अयम् अश्वत्थः औषधीयसस्यत्वेन अपि परिगण्यते । अस्य वृक्षस्य त्वक्, फलं, पर्णं चापि औषधत्वेन उपयुज्यते । अस्य त्वचि “ट्यानिन्” अंशः अस्ति ।
इतरभाषाभिः अस्य अश्वत्थवृक्षस्य नामानि
अयम् अश्वत्थवृक्षः आङ्ग्लभाषयाSecred Fig इति उच्यते । सस्यकुले अयं Ficus religiosa इति कुले अन्तर्भवति । हिन्दीभाषया“पीपल्” इति, तेलुगुभाषया“रविचेट्टु” इति, तमिळ्भाषया “अरशमरम्” इति, मलयाळभाषया “अश्वत्थम्” इति, कन्नडभाषया“अरळि मर” अथवा “अश्वत्थ मर” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य अश्वत्थवृक्षस्य प्रयोजनानि
अस्य अश्वत्थवृक्षस्य रसः कषायः । अयं गुरुगुणयुक्तः, रूक्षः, वीर्यशीतः च । अयम् अश्वत्थः आकारस्य कारणात् वृक्षजातौ अन्तर्भवति तथैव औषधीयत्वस्य कारणात् औषधीयानां सस्यानां गणे अपि अन्तर्भवति ।
१. अस्य अश्वत्थस्य फलानां खादनेन मलबद्धता निवार्यते । जीर्णक्रिया वर्धते चापि ।
२. अस्य त्वचः चूर्णं व्रणस्य उपरि लेपयति चेत् व्रणः अपगच्छति । ५.०० ग्रां यावत् चूर्णं दिने द्विवारं उष्णजलेन सह उपयोक्तव्यम् ।
३. अस्य अश्वत्थस्य चूर्णं, वटवृक्षस्य चूर्णं, “बसरि” इत्यस्य वृक्षस्य चूर्णम्, औदुम्बरवृक्षस्य चूर्णं, “हूवरि” इत्यस्य वृक्षस्य चूर्णं च योजयित्वा जलं योजयित्वा सम्यक् क्वथनीयम् । (१:१६ प्रमाणम्, १ प्रमाणस्य चूर्णं, १६ प्रमाणस्य जलम्) जलं पादभागं यावत् भवेत् तावत् पर्यन्तम् अपि क्वथनीयम् । इदं कषायं “पञ्चवल्कल – कषायम्” इति उच्यते । इदं कषायं मुखे संस्थाप्य गण्डूषकरणेन मुखस्य पिटकाः अपगच्छन्ति । महिलानां श्वेतस्रावः अस्ति चेत् गर्भाशयस्य प्रक्षालनार्थम् अपि इदं कषायम् उपयोक्तुं शक्यते ।
पवित्रकः/अश्वत्थः
अश्वत्थवृक्षकः
सस्यशास्त्रीयं वर्गीकरणम्
मोरासिये कुले विद्यमानस्य अस्य सस्यस्य पैकस् रिलिजियोस् (Ficus religiosa) इति सस्यशास्त्रीयं नाम । अयं वृक्षः वृहद्रूपेण प्ररोहति वहुपर्णानि च भवन्ति । अल्पभारयुक्तानि पर्णानि वायुसञ्चारेन कम्पितानि विशिष्टं नादं जनयन्ति । मानवपाणिप्रमाणेन विशालानाम् एतेषां पर्णानाम् अग्रभागाः तीक्णाः भवन्ति।
प्रयोजनानि
अस्य काण्डस्य दारूणि बहूपयोगाय न भवन्ति । केवलम् इन्धनत्वेन उपयोक्तुं शक्यते । सजीववृक्षस्य काण्डात् कश्चन निर्यासः स्रवति । एषः सुवर्णाभरणनिर्माणे उपयोगार्थं भवति । पञ्च अग्निवृक्षेषु अयम् अन्यतमः । अस्य वृक्षस्य शाखानां सपत्रः परभागः समिद्रूपेण यज्ञयागदिषु उपयुज्यते । अस्य मूलस्य त्वक् आयुर्वेदीयौषधनिर्माणे उपयुज्यते । अयं श्लोकः वृक्षस्य गरिमां सूचयति ।
अश्वत्थमेकं पिचुमन्दमेकं, न्यग्रोधमेकं दशतिन्त्रिणीकम् ।
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।


नारिकेलवृक्षः
कल्पवृक्षः भारतीयभाषासु कथ्यमानः अयं वृक्षः बहुवर्षीयं सस्यम् अस्ति । नारिकेलः कल्पवृक्षः इति अस्य नामान्तरम् । अस्य सर्वेऽपि अङ्गानि उपयोगाय भवन्ति इति अपि च अयं वृक्षः बहुकालं स्वपालकाय आहारं ददाति । उक्तं च ....
प्रथमवयसि पीतं तोयमल्पं स्मरन्तः ।
शिरसिनिहितभारा नारिकेला नराणाम् ।
ददाति जलमतल्पास्वादमाजीवितान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ॥

नारिकेरवृक्षे शाखाविशाखाः न भावन्ति स्य पत्रवली दीर्घा भवति । दीर्घे दण्डे कृषाणि पत्राणि समान्तरेण संलग्नानि भवन्ति । अयं वृक्षः समुद्रतीरेषु अथवा लावण्यक्शेत्रेषु सम्यक् प्ररोहति । अस्य फलं भारतीयानां पवित्रतमं भवति । सर्वेषु धार्मिकविधिषु पूर्णफलरूपेण एतत् एव उपयोजयन्ति । नारिकेलवृक्षः भारते अधिकतया संरोहति । केरलराज्ये, पश्चिमबङ्गालराज्ये, ओडिशाराज्ये, अपि च महाराष्ट्रराज्ये, गोवाराज्ये नारिकेलस्य उपचयः अधिकः अस्ति ।

निम्बः
शतायुर्वज्रदेहाय सर्वसम्पत्कराय च ।
सर्वानिष्टविनाशाय निम्बकं दलभक्षणम् ॥
अयं श्लोकः निम्ब/निम्बकवृक्षस्य धार्मिकं स्वास्थ्यं च गुरुत्वं सूचयति । अयं निम्बवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं भारतस्य सर्वेषु अपि प्रदेशेषु वर्धते । अयं बहूपयोगी वृक्षः इत्येव प्रसिद्धः अस्ति । युगादिपर्वणः अवसरे निम्बगुडस्य सेवनं परम्परानुगुणं प्रवर्तते भारते । अयं वृक्षः समतलभूमौ वर्धते । यत्र अधिका वृष्टिः जायते तत्र अयं वृक्षः न वर्धते । कासाराणां, तडागानां, सरोवराणां वा तीरे समृद्धरूपेण वर्धते अयं निम्बवृक्षः । अस्य वृक्षस्य सर्वाङ्गानि अपि औषधत्वेन उपयुज्यन्ते । अस्य पर्णाणि संयुक्तगात्राणि । अयं वृक्षः सदा हरिद्वर्णीयः । अस्य पर्णानाम् अञ्चलः (अन्तिमभागः) क्रकचः इव तीक्ष्णः भवति । अस्य निम्बवृक्षस्य त्वक् कपिलवर्णीयं भवति । पर्णानां कक्षे पुष्पाणां गुच्छं भवति । पुष्पाणि मधुगन्धयुक्तानि, श्वेतवर्णीयानि च भवन्ति । मार्चमासतः मेमासाभ्यन्तरे पुष्पाणि जायन्ते । सेप्टेम्बर्-तः नवेम्बर्-मासाभ्यन्तरे फलानि वर्धन्ते । फलानि मन्दपीतवर्णीयानि । अस्मिन् एव अवधौ बीजानां सङ्ग्रहणम् अपि प्रचलति ।
इतरभाषाभिः अस्य निम्बवृक्षस्य नामानि
अयं निम्बवृक्षः आङ्ग्लभाषया Neem इति उच्यते । हिन्दीभाषया “नीम” इति, बङ्गभाषया "निम्" इति, तेलुगुभाषया “वेपचेट्टु” इति, तमिळ्भाषाया “वेम्बु” इति, मलयाळभाषया “वेप्पु” इति, कन्नडभाषया “बेवु” अथवा “कहिबेवु” इति उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य निम्बवृक्षस्य प्रयोजनानि
अस्य निम्बवृक्षस्य रसः तिक्तः । अस्य निम्बवृक्षस्य त्वक्, निर्यासः, पर्णं, पुष्पं, पल्लवं, बीजं, फलं, बीजस्य तैलं, पिण्याकः, रसः च औषधत्वेन उपयुज्यते ।
१. उष्णजले अस्य निम्बवृक्षस्य पर्णानि निमज्य तेन जलेन स्नानं क्रियते चेत् कण्डूयनं, पिटकाः च अपगच्छन्ति ।
२. विशिष्टेषु केषुचित् पिटकेषु अस्य पर्णानि सम्पेष्य रसं निषीड्य लेप्यते ।
३. निम्बस्य सेवनेन विषबाधा निवारिता भवति।
४. यद्यपि निम्बः अत्यन्तं तिक्तः तथापि सः सञ्जीवनी इव । पुस्तकानां मध्ये अपि अस्य पर्णानि स्थाप्यन्ते । तेन पुस्तकानि कीटैः न खाद्यन्ते ।
५. अस्य पर्णानां शलाकाः दन्तधावनार्थं दन्तकूर्चाणां स्थाने उपयुज्यन्ते ।

६. मषकाणां निवारणाय अस्य काष्ठैः, पर्णैः वा धूमः उत्पाद्यते ।

आम्रवृक्षः
आम्रः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । आम्रस्य आङ्ग्लभाषया Mango इति पदेन व्यवहारः। आम्रजातिषु नैके विधाः सन्ति । च्यूतम् इत्यपि अस्य अपरं नाम । सर्वभाषानां काव्येषु आम्रवृक्षस्य उल्लेखः कृतः । माम्रवृक्षेण सह कोकिलस्य सम्बन्धः बहुत्र काव्येषु उल्लिखितः ।

No comments:

Post a Comment

Popular Posts

Get Notified By Mail For New Essays